|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.44. अध्यायः 044
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रति स्वस्वजातिषु श्रेष्ठवस्तु प्रतिपादनपूर्वकं ज्ञानस्याविनाशित्वकथनेन तस्यैव श्रेयःसाधनत्वोक्तिः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः॥ 14-44-1(93596)
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः॥ 14-44-2(93597)
भूमिरादिस्तु गन्धानां रसानामाप एव च।
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते॥ 14-44-3(93598)
शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्॥ 14-44-4(93599)
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥ 14-44-5(93600)
ओङ्कारः सर्ववेदानां वचसां प्राण एव च।
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते॥ 14-44-6(93601)
गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः॥ 14-44-7(93602)
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्।
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः॥ 14-44-8(93603)
कृतमादिर्युगानां च सर्वेषां नात्र संशयः।
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा॥ 14-44-9(93604)
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥ 14-44-10(93605)
स्थावराणां तु भूतानां सर्वेषामविशेषतः।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः॥ 14-44-11(93606)
अहं प्रजापतीनां च सर्वेषां नात्र संशयः।
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः॥ 14-44-12(93607)
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा॥ 14-44-13(93608)
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता।
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः॥ 14-44-14(93609)
देवदानवभूतानां पिशाचोरगरक्षसाम्।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः॥ 14-44-15(93610)
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्।
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते॥ 14-44-16(93611)
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ 14-44-17(93612)
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम॥ 14-44-18(93613)
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्॥ 14-44-19(93614)
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्।
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम्॥ 14-44-20(93615)
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते॥ 14-44-21(93616)
तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः।
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः॥ ॥ 14-44-22(93617)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः॥ 44 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-44-2 श्रविष्ठादीनि सर्वाणिति क.ट.थ.पाठः॥ 7-44-3 रूपाणां ज्योतिरादित्य इति झ.पाठः॥ 7-44-8 हुतं अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तम्॥ 7-44-11 ब्रह्मवृक्षः सदा पुण्यः इति क.थ.पाठः॥ 7-44-14 सरोदपाननां सरसां कूपादीनां च। संधिरार्षः। तथाचाश्वो वाहनानां सर्वेषां सागरोग्रज इति क.पाठः॥ 7-44-15 ईश्वरः रुद्रः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|